ऋग्वेदसंहिता, पदपाठ · अध्याय 8.12
॥36॥.
-र्व्_6:1।1-
(र्व्_8,12)
यः । इन्द्र । सोम-पातमः । मदः । शविष्ठ । चेतति । येन । हंसि । नि । अत्रिणम् । तम् । ईमहे
येन । दश-ग्वम् । अध्रि-गुम् । वेप-यन्तम् । स्वः-नरम् । येन । समुद्रम् । आविथ । तम् । ईमहे
येन । सिन्धुम् । महीः । अपः । रथान्-इव । प्र-चोदयः । पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे
इमम् । स्तोमम् । अभिष्टये । घृतम् । न । पूतम् । अद्रि-वः । येन । नु । सद्यः । ओजसा । ववक्षिथ
इमम् । जुषस्व । गिर्वणः । समुद्रः-इव । पिन्वते । इन्द्र । विश्वाभिः । ऊति--भिः । ववक्षिथ
॥1॥.
-र्व्_6:1।2-
यः । नः । देवः । परावतः । सखि-त्वनाय । ममहे । दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ
ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः । यत् । सूर्यः । न । रोदसी इति । अवर्धयत्
यदि । प्र-वृद्ध । सत्-पते । सहस्रम् । महिषान् । अघः । आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे
इन्द्रः । सूर्यस्य । रश्मि-भिः । नि । अर्शसानम् । ओषति । अग्निः । वनाइव । ससहिः । प्र । ववृधे
इयम् । ते । ऋत्विय-वती । धीतिः । एति । नवीयसी । सपर्यन्ती । पुरु-प्रिया । मि मीते । इत्
॥2॥.
-र्व्_6:1।3-
गर्भः । यज्ञस्य । देव-युः । क्रतुम् । पुनीते । आनुषक् । स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत्
सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये । प्राची । वाशी-इव । सुन्वते । मिमीते । इत्
यम् । विप्राः । उक्थ-वाहसः । अभि-प्रमन्दुः । आयवः । घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत्
उत । स्व-राजे । अदितिः । स्तोमम् । इन्द्राय । जीजनत् । पुरु-प्रशस्तम् । ऊतये । ऋतस्य । यत्
अभि । वह्नयः । ऊतये । अनूषत । प्र-शस्तये । न । देव । वि-व्रता । हरी इति । ऋतस्य । यत्
॥3॥.
-र्व्_6:1।4-
यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये । यत् । वा । मरुत्-सु । मन्दसे । सम् । इन्दु-भिः
यत् । वा । शक्र । परावति । समुद्रे । अधि । मन्दसे । अस्माकम् । इत् । सुते । रण । सम् । इन्दु-भिः
यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्-पते । उक्थे । वा । यस्य । रण्यसि । सम् । इन्दु-भिः
देवम्-देवम् । वः । अवसे । इन्द्रम्-इन्द्रम् । गृणीषणि । अध । यज्ञाय । तुर्वणे । वि । आनशुः
यज्ञेभिः । यज्ञ-वाहसम् । सोमेभिः । सोम-पातमम् । होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः
॥4॥.
-र्व्_6:1।5-
महीः । अस्य । प्र-नीतयः । पूर्वीः । उत । प्र-शस्तयः । विश्वा । वसूनि । दाशुषे । वि । आनशुः
इन्द्रम् । वृत्राय । हन्तवे । देवासः । दधिरे । पुरः । इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे
महान्तम् । महिना । वयम् । स्तोमेभिः । हवन-श्रुतम् । अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे
न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् । अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः
यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः
॥5॥.
-र्व्_6:1।6-
यदा । वृत्रम् । नदी-वृतम् । शवसा । वज्रिन् । अवधीः । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः
यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । वि-चक्रमे । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः
यदा । ते । हर्यता । हरी इति । ववृधातेइति । दिवे--दिवे । आत् । इत् । ते । विश्वा । भुवनानि । येमिरे
यदा । ते । मारुतीः । विशः । तुभ्यम् । इन्द्र । नि-येमिरे । आत् । इत् । ते । विश्वा । भुवनान् इ । येमिरे
यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः । आत् । इत् । ते । विश्वा । भुवनानि । येमिरे
इमाम् । ते । इन्द्र । सु-स्तुतिम् । विप्रः । इयर्ति । धीति-भिः । जामिम् । पदाइव । पिप्रतीम् । प्र । अध्वरे
यत् । अस्य । धामनि । प्रिये । समीचीनासः । अस्वरन् । नाभा । यज्ञस्य । दोहना । प्र । अध्वरे
सु-वीर्यम् । सु-अश्व्यम् । सु-गव्यम् । इन्द्र । दद्धि । नः । होताइव । पूर्व-चित्तये । प्र । अध्वरे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0