ऋग्वेदसंहिता, पदपाठ · अध्याय 8.102
॥8॥.
-र्व्_6:7।9-
(र्व्_8,102)
त्वम् । अग्ने । बृहत् । वयः । दधासि । देव । दाशुषे । कविः । गृह-पतिः । युवा
सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा । चिकित् । विभानो इतिवि-भानो । आ । वह
त्वया । ह । स्वित् । युजा । वयम् । चोदिष्ठेन । यविष्ठ्य । अभि । स्मः । वाज-सातये
और्वभृगु-वत् । शुचिम् । अप्नवान-वत् । आ । हुवे । अग्निम् । समुद्र-वाससम्
हुवे । वात-स्वनम् । कविम् । पर्जन्य-क्रन्द्यम् । सहः । अग्निम् । समुद्र-वाससम्
॥9॥.
-र्व्_6:7।10-
आ । सवम् । सवितुः । यथा । भगस्य-इव । भुजिम् । हुवे । अग्निम् । समुद्र-वाससम्
अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरु-तमम् । अच्छ । नप्त्रे । सहस्वते
अयम् । यथा । नः । आभुवत् । त्वष्टा । रूपाइव । तक्ष्या । अस्य । क्रत्वा । यशस्वतः
अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते । आ । वाजैः । उप । नः । गमत्
विश्वेषाम् । इह । स्तुहि । होतृॠणाम् । यशः-तमम् । अग्निम् । यज्ञेषु । पूर्व्यम्
॥10॥.
-र्व्_6:7।11-
शीरम् । पावक-शोचिषम् । ज्येष्ठः । यः । दमेषु । आ । दीदाय । दीर्घश्रुत्-तमः
तम् । अर्वन्तम् । न । सानसिम् । गृणीहि । विप्र । शुष्मिणम् । मित्रम् । न । यातयत्-जनम्
उप । त्वा । जामयः । गिरः । देदिशतीः । हविः-कृतः । वायोः । अनीके । अस्थिरन्
यस्य । त्रि-धातु । अवृतम् । बर्हिः । तस्थौ । असम्-दिनम् । आपः । चित् । नि । दध । पदम्
पदम् । देवस्य । मीळ्हुषः । अनाधृष्टाभिः । ऊति-भिः । भद्रा । सूर्यः-इव । उप-दृक्
॥11॥.
-र्व्_6:7।12-
अग्ने । घृतस्य । धीति-भिः । तेपानः । देव । शोचिषा । आ । देवान् । वक्षि । यक्षि । च
तम् । त्वा । अजनन्त । मातरः । कविम् । देवासः । अङ्गिरः । हव्य-वाहम् । अमर्त्यम्
प्र-चेतसम् । त्वा । कवे । अग्ने । दूतम् । वरेण्यम् । हव्य-वाहम् । नि । सेदिरे
नहि । मे । अस्ति । अघ्न्या । न । स्व-धितिः । वनन्-वति । अथ । एतादृक् । भरामि । ते
यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि । ता । जुषस्व । यविष्ठ्य
यत् । अत्ति । उप-जिह्विका । यत् । वम्रः । अति-सर्पति । सर्वम् । तत् । अस्तु । ते । घृतम्
अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः । अग्निम् । ईधे । विवस्व-भिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0