ऋग्वेदसंहिता, पदपाठ · अध्याय 8.101
॥5॥.
-र्व्_6:7।6-
(र्व्_8,101)
ऋधक् । इत्था । सः । मर्त्यः । शशमे । देव-तातये । यः । नूनम् । मित्रावरुणौ । अभिष्टये । आचक्रे । हव्य-दातये
वर्षिष्ठ-क्षत्रौ । उरु-चक्षसा । नरा । राजाना । दीर्घश्रुत्-तमा । ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मि-भिः
प्र । यः । वाम् । मित्रावरुणा । अजिरः । दूतः । अद्रवत् । अयः-शीर्षा । मदे--रघुः
न । यः । सम्-पृच्छे । न । पुनः । हवीतवे । न । सम्-वादाय । रमते । तस्मात् । नः । अद्य । सम्-ऋतेः । उरुष्यतम् । बाहु-भ्याम् । नः । उरुष्यतम्
प्र । मित्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतवसो इत्य् ऋत-वसो । वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राज-सु । गायत
॥6॥.
-र्व्_6:7।7-
ते । हिन्विरे । अरुणम् । जेन्यम् । वसु । एकम् । पुत्रम् । तिसॄणाम् । ते । धामानि । अमृताः । मर्त्यानाम् । अदब्धाः । अभि । चक्षते
आ । मे । वचांसि । उत्-यता । द्युमत्-तमानि । कर्त्वा । उभा । यातम् । नासत्या । स-जोषसा । प्रति । हव्यानि । वीतये
रातिम् । यत् । वाम् । अरक्षसम् । हवामहे । युवाभ्याम् । वाजिनीवसूइतिवाजिनी-वसू । प्राचीम् । होत्राम् । प्र-तिरन्तौ । इतम् । नरा । गृणाना । जमत्-अग्निना
आ । नः । यज्ञम् । दिवि-स्पृशम् । वायो इति । याहि । सुमन्म-भिः । अन्तरिति । पवित्रे । उपरि । श्रीणानः । अयम् । शुक्रः । अयामि । ते
वेति । अध्वर्युः । पथि-भिः । रजिष्ठैः । प्रति । हव्यानि । वीतये । अध । नियुत्वः । उभ्यस्य । नः । पिब । शुचिम् । सोमम् । गो--आशिरम्
॥7॥.
-र्व्_6:7।8-
बट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि । महः । ते । सतः । महिमा । पनस्यते । अद्धा । देव । महान् । असि
बट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि । मह्ना । देवानाम् । असुर्यः । पुरः-हितः । वि-भु । ज्योतिः । अदाभ्यम्
इयम् । या । नीची । अर्किणी । रूपा । रोहिण्या । कृता । चित्राइव । प्रति । अदर्शि । आयती । अन्तः । दश-सु । बाहुषु
प्र-जाः । ह । तिस्रः । अति-आयम् । ईयुः । नि । अन्याः । अर्कम् । अभितः । विविश्रे । बृहत् । ह । तस्थौ भुवनेषु । अन्तरिति । पवमानः । हरितः । आ । विवेश
माता । रुद्राणाम् । दुहिता । वसूनाम् । स्वसा । आदित्यानाम् । अमृतस्य । नाभिः । प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट
वचः-विदम् । वाचम् । उत्-ईरयन्तीम् । विश्वाभिः । धीभिः । उप-तिष्ठमानाम् । देवीम् । देवेभ्यः । परि । आईयुषीम् । गाम् । आ । मा । अवृक्त । मर्त्यः । दभ्र-चेताः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0