भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.104

7.104.1

॥4॥.
-र्व्_5:7।5-
(र्व्_7,104)
इन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमः-वृधः । परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः

7.104.2

इन्द्रासोमा । सम् । अघ-शंसम् । अभि । अघम् । तपुः । ययस्तु । चरुः । अग्निवान्-इव । ब्रह्म-द्विषे । क्रव्य-अदे । घोर-चक्षसे । द्वेषः । धत्तम् । अनवायम् । किमीदिने

7.104.3

इन्द्रासोमा । दुः-कृतः । वव्रे । अन्तः । अनारम्भणे । तमसि । प्र । विध्यतम् । यथा । न । अतः । पुनः । एकः । चन । उत्-अयत् । तत् । वाम् । अस्तु । सहसे । मन्यु-मत् । शवः

7.104.4

इन्द्रासोमा । वर्तयतम् । दिवः । वधम् । सम् । पृथिव्याः । अघ-शंसाय । तहर्णम् । उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्यः । येन । रक्षः । ववृधानम् । नि-जूर्वथः

7.104.5

इन्द्रासोमा । वर्तयतम् । दिवः । परि । अग्नि-तप्तेभिः । युवम् । अश्महन्म-भिः । तपुः-वधेभिः । अजरेभिः । अत्रिणः । नि । पर्शाने । विध्यतम् । यन्तु । नि--स्वरम्

7.104.6

॥5॥.
-र्व्_5:7।6-
इन्द्रासोमा । परि । वाम् । भूतु । विश्वतः । इयम् । मतिः । कक्ष्या । अश्वाइव । वाजि ना । याम् । वाम् । होत्राम् । परि-हिनोमि । मेधया । इमा । ब्रह्माणि । नृपतीइवेतिनृपती-इव । जिन्वतम्

7.104.7

प्रति । स्मरेथाम् । तुजयत्-भिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुर-वतः । इन्द्रासोमा । दुः-कृते । मा । सु-गम् । भूत् । यः । नः । कदा । चित् । अभि-दासति । द्रुहा

7.104.8

यः । मा । पाकेन । मनसा । चरन्तम् । अभि-चष्टे । अनृतेभिः । वचः-भिः । आपः-इव । काशिना । सम्-गृभीताः । असन् । अस्तु । असतः । इन्द्र । वक्ता

7.104.9

ये । पाक-शंसम् । वि-हरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभ् इः । अहये । वा । तान् । प्र-ददातु । सोमः । आ । वा । दधातु । निः-ऋतेः । उप-स्थे

7.104.10

यः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् । रिपुः । स्तेनः । स्तेय-कृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च

7.104.11

॥6॥.
-र्व्_5:7।7-
परः । सः । अस्तु । तन्वा । तना । च । तिस्रः । पृथिवीः । अधः । अस्तु । विश्वाः । प्रति । शुष्यतु । यशः । अस्य । देवाः । यः । नः । दिवा । दिप्सति । यः । च । नक्तम्

7.104.12

सु-विज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधातेइति । तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत्

7.104.13

न । वै । ओं इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् । हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्र-सितौ । शयातेइति

7.104.14

यदि । वा । अहम् । अनृत-देवः । आस । मोघम् । वा । देवान् । अपि-ऊहे । अग्ने । किम् । अस्मभ्यम् । जात-वेदः । हृणीषे । द्रोघ-वाचः । ते । निर्-ऋथम् । सचन्ताम्

7.104.15

अद्य । मुरीय । यदि । यातु-धानः । अस्मि । यदि । वा । आयुः । ततप । पुरुषस्य । अध । सः । वीरैः । दश-भिः । वि । यूयाः । यः । मा । मोघम् । यातु-धान । इति । आह

7.104.16

॥7॥.
-र्व्_5:7।8-
यः । मा । अयातुम् । यातु-धान । इति । आह । यः । वा । रक्षाः । शुचिः । अस्मि । इति । आह । इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट

7.104.17

प्र । या । जिगाति । खर्गलाइव । नक्तम् । अप । द्रुहा । तन्वम् । गूहमाना । वव्रान् । अनन्ताम्न् । अव । सा । पदीष्ट । ग्रावाणः । घ्नन्तु । रक्षसः । उपब्दैः

7.104.18

वि । तिष्ठध्वम् । मरुतः । विक्षु । इच्छत । गृभायत । रक्षसः । सम् । पिनष्टन । वयः । ये । भूत्वी । पतयन्ति । नक्त-भिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे

7.104.19

प्र । वर्तय । दिवः । अश्मानम् । इन्द्र । सोम-शितम् । मघ-वन् । सम् । सिशाधि । प्राक्तात् । अपाक्तात् । अधरात् । उदक्तात् । अभि । जहि । रक्षसः । पर्वतेन

7.104.20

एते । ओं इति । त्ये । पतयन्ति । श्व-यातवः । इन्द्रम् । दिप्सन्ति । दिप्सवः । अदाभ्यम् । शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्-भ्यः

7.104.21

॥8॥.
-र्व्_5:7।9-
इन्द्रः । यातूनाम् । अभवत् । पराशरः । हविः-मथीनाम् । अभि । आविवासताम् । अभि । इत् । ओं इति । शक्रः । परशुः । यथा । वनम् । पात्राइव । भिन्दन् । सतः । एति । रक्षसः

7.104.22

उलूक-यातुम् । शुशुलूक-यातुम् । जहि । श्व-यातुम् । उत । कोक-यातुम् । सुपर्ण-यातुम् । उत । गृध्र-यातुम् । दृषदाइव । प्र । मृण । रक्षः । इन्द्र

7.104.23

मा । नः । रक्षः । अभि । नट् । यातु-मावताम् । अप । उच्छतु । मिथुना । या । किमीदिना । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान्

7.104.24

इन्द्र । जहि । पुमांसम् । यातु-धानम् । उत । स्त्रियम् । मायया । शाशदानाम् । वि-ग्रीवासः । मूर-देवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्-चरन्तम्

7.104.25

प्रति । चक्ष्व । वि । चक्ष्व । इन्द्रः । च । सोम । जागृतम् । रक्षः-भ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्-भ्यः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc