ऋग्वेदसंहिता, पदपाठ · अध्याय 7.99
॥23॥.
-र्व्_5:6।24-
(र्व्_7,99)
परः । मात्रया । तन्वा । वृधान । न । ते । महि-त्वम् । अनु । अश्नुवन्ति । उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से
न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप । उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः
इरावती इतीरावती । धेनुमती इतिधेनु-मती । हि । भूतम् । सुयवसिनी इतिसु-यवसिनी । मनुषे । दशस्या । वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः
उरुम् । यज्ञाय । चक्रथुः । ओं इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् । दासस्य । चित् । वृष-शिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु
इन्द्राविष्णूइति । दृंहिताः । शम्बरस्य । नव । पुरः । नवतिम् । च । श्नथ् इष्टम् । शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान्
इयम् । मनीषा । बृहती । बृहन्ता । उरु-क्रमा । तवसा । वर्धयन्ती । ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र
वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपि-विष्ट । हव्यम् । वर्धन्तु । त्वा । सु-स्तुतयः । गिरः । मे । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0