भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.98

7.98.1

॥22॥.
-र्व्_5:6।23-
(र्व्_7,98)
अध्वर्यवः । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् । गौरात् । वेदीयान् । अव-पानम् । इन्द्रः । विश्वाहा । इत् । याति । सुत-सोमम् । इच्छन्

7.98.2

यत् । दधिषे । प्र-दिवि । चारु । अन्नम् । दिवे--दिवे । पीतिम् । इत् । अस्य । वक्षि । उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्र-स्थितान् । पाहि । सोमान्

7.98.3

जज्ञानः । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच । आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्यः । वरिवः । चकर्थ

7.98.4

यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहु-भिः । शाशदानान् । यत् । वा । नृ-भिः । वृतः । इन्द्र । अभि-युध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम

7.98.5

प्र । इन्द्रस्य । वोचम् । प्रथमा । कृतानि । प्र । नूतना । मघ-वा । या । चकार । यदा । इत् । अदेवीः । असहिष्ट । मायाः । अथ । अभवत् । केवलः । सोमः । अस्य

7.98.6

तव । इदम् । विश्वम् । अभितः । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य । गवाम् । असि । गो--पतिः । एकः । इन्द्र । भक्षीमहि । ते । प्र-यतस्य । वस्वः

7.98.7

बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथेइति । उत । पार्थिवस्य । धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc