भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.100

7.100.1

॥24॥.
-र्व्_5:6।25-
(र्व्_7,100)
नु । मर्तः । दयते । सनिष्यन् । यः । विष्णवे । उरु-गायाय । दाशत् । प्र । यः । सत्राचा । मनसा । यजाते । एतावन्तम् । नर्यम् । आविवासात्

7.100.2

त्वम् । विष्णो इति । सु-मतिम् । विश्व-जन्याम् । अप्र-युताम् । एव-यावः । मतिम् । दाः । पर्चः । यथा । नः । सुवितस्य । भूरेः । अश्व-वतः । पुरु-चन्द्रस्य । रायः

7.100.3

त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शत-अर्चसम् । महि-त्वा । प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम

7.100.4

वि । चक्रमे । पृथिवीम् । एषः । एताम् । क्षेत्राय । विष्णुः । मनुषे । दशस्यन् । ध्रुवासः । अस्य । कीरयः । जनासः । उरु-क्षितिम् । सु-जनिमा । चकार

7.100.5

प्र । तत् । ते । अद्य । शिपि-विष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके

7.100.6

किम् । इत् । ते । विष्णो इति । परि-चक्ष्यम् । भूत् । प्र । यत् । ववक्षे । शिपि-विष्टः । अस्मि । मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्य-रूपः । समिथे । बभूथ

7.100.7

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपि-विष्ट । हव्यम् । वर्धन्तु । त्वा । सु-स्तुतयः । गिरः । मे । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc