भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.96

7.96.1

॥19॥.
-र्व्_5:6।20-
(र्व्_7,96)
बृहत् । ओं इति । गायिषे । वचः । असुर्या । नदीनाम् । सरस्वतीम् । इत् । महय । सु-वृक्ति-भि ः । स्तोमैः । वसिष्ठ । रोदसी इति

7.96.2

उभे इति । यत् । ते । महिना । शुभ्रे । अन्धसी इति । अधि-क्षियन्ति । पूरवः । सा । नः । बोधि । अवित्री । मरुत्-सखा । चोद । राधः । मघोनाम्

7.96.3

भद्रम् । इत् । भद्रा । कृणवत् । सरस्वती । अकव-अरी । चेतति । वाजिनी-वती । गृणाना । जमदग्नि-वत् । स्तुवाना । च । वसिष्ठ-वत्

7.96.4

जनीयन्तः । नु । अग्रवः । पुत्रि-यन्तः । सु-दानवः । सरस्वन्तम् । हवामहे

7.96.5

ये । ते । सरस्वः । ऊर्मयः । मधु-मन्तः । घृत-श्चुतः । तेभिः । नः । अविता । भव

7.96.6

पीपि-वांसम् । सरस्वतः । स्तनम् । यः । विश्व-दर्शतः । भक्षीमहि । प्र-जाम् । इषम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc