ऋग्वेदसंहिता, पदपाठ · अध्याय 7.91
॥12॥.
-र्व्_5:6।13-
(र्व्_7,91)
कुवित् । अङ्ग । नमसा । ये । वृधासः । पुरा । देवाः । अनवद्यासः । आसन् । ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण
उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः । इन्द्रवायूइति । सु-स्तुतिः । वाम् । इयाना । मार्डीकम् । ईटे । सुवितम् । च । नव्यम्
पीवः-अन्नान् । रयि-वृधः । सु-मेधाः । श्वेतः । सिषक्ति । नि-युताम् । अभि-श्रीः । ते । वायवे । स-मनसः । वि । तस्थुः । विश्वा । इत् । नरः । सु-अपत्यानि । चक्रुः
यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः । शुच् इम् । सोमम् । शुचि-पा । पातम् । अस्मे इति । इन्द्रवायूइति । सदतम् । बर्हिः । आ । इदम्
नि-युवाना । नि-युतः । स्पार्ह-वीराः । इन्द्रवायूइति । स-रथम् । यातम् । अवार्क् । इदम् । हि । वाम् । प्र-भृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति
या । वाम् । शतम् । नि-युतः । याः । सहस्रम् । इन्द्रवायूइति । विश्व-वाराः । सचन्ते । आभिः । यातम् । सु-विदत्राभिः । अर्वाक् । पातम् । नरा । प्रति-भृतस्य । मध्वः
अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुति-भिः । वसिष्ठाः । वाज-यन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0