भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.90

7.90.1

॥11॥.
-र्व्_5:6।12-
(र्व्_7,90)
प्र । वीर-या । शुचयः । दद्रिः । वाम् । अध्वर्यु-भिः । मधु-मन्तः । सुतासः । वह । वायो इति । नि-युतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय

7.90.2

ईशानाय । प्र-हुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचि-पाः । तुभ्यम् । वायो इति । कृणोषि । तम् । मर्त्येषु । प्र-शस्तम् । जातः-जातः । जायते । वाज्यस्य

7.90.3

राये । नु । यम् । जज्ञतुः । रोदसी इति । इमे इति । राये । देवी । धिषणा । धाति । देवम् । अध । वायुम् । नि-युतः । सश्चत । स्वाः । उत । श्वेतम् । वसु-धितिम् । निरेके

7.90.4

उच्छन् । उषसः । सु-दिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः । गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्र-दिवः । सस्रुः । आपः

7.90.5

ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति । इन्द्रवायूइति । वीर-वाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते

7.90.6

ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसु-भिः । हिरण्यैः । इन्द्रवायूइति । सूरयः । विश्वम् । आयुः । अर्वत्-भिः । वीरैः । पृतनासु । सह्युः

7.90.7

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुति-भिः । वसिष्ठाः । वाज-यन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc