भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.9

7.9.1

॥11॥.
-र्व्_5:2।12-
(र्व्_7,9)
अबोधि । जारः । उषसाम् । उप-स्थात् । होता । मन्द्रः । कवि-तमः । पावकः । दधाति । केतुम् । उभयस्य । जन्तोः । हव्या । देवेषु । द्रविणम् सुकृत्-सु

7.9.2

सः । सु-क्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरु-भोजसम् । नः । होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम्

7.9.3

अमूरः । कविः । अदितिः । विवस्वान् । सु-संसत् । मित्रः । अतिथिः । शिवः । नः । चित्र-भानुः । उषसाम् । भाति । अग्रे । अपाम् । गर्भः । प्र-स्वः । आ । विवेश

7.9.4

ईळेन्यः । वः । मनुषः । युगेषु । समन-गाः । अशुचत् । जात-वेदाः । सु-सन्दृशा । भानुना । यः । वि-भाति । प्रति । गावः । सम्-इधानम् । बुधन्त

7.9.5

अग्ने । याहि । दूत्यम् । मा । रिषण्यः । देवाम् । अच्छ । ब्रह्म-कृता । गणेन । सरस्वतीम् । मरुतः । अश्विना । अपः । यक्षि । देवान् । रत्न-धेयाय । विश्वान्

7.9.6

त्वाम् । अग्ने । सम्-इधानः । वसिष्ठः । जरूथम् । हन् । यक्षि । राये । पुरम्-धिम् । पुरु-नीथा । जात-वेदः । जरस्व । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc