ऋग्वेदसंहिता, पदपाठ · अध्याय 7.10
॥12॥.
-र्व्_5:2।13-
(र्व्_7,10)
उषः । न । जारः । पृथु । पाजः । अश्रेत् । दविद्युतत् । दीद्यत् । शोशुचानः । वृषा । हर् इः । शुचिः । आ । भाति । भासा । धियः । हिन्वानः । उशतीः । अजीगरिति
स्वः । न । वस्तोः । उषसाम् । अरोचि । यज्ञम् । तन्वानाः । उशिजः । न । मन्म । अग्निः । जन्मानि । देवः । आ । वि । विद्वान् । द्रवत् । दूतः । देव-यावा । वनिष्ठः
अच्छ । गिरः । मतयः । देव-यन्तीः । अग्निम् । यन्ति । द्रविणम् । भिक्षमाणाः । सु-सन्दृशम् । सु-प्रतीकम् । सु-अञ्चम् । हव्य-वाहम् । अरतिम् । मानुषाणाम्
इन्द्रम् । नः । अग्ने । वसु-भिः । स-जोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् । आदित्येभिः । अदितिम् । विश्व-जन्याम् । बृहस्पतिम् । ऋक्व-भिः । विश्व-वारम्
मन्द्रम् । होतारम् । उशिजः । यविष्ठम् । अग्निम् । विशः । ईळते । अध्वरेषु । सः । हि । क्षपावान् । अभवत् । रयीणाम् । अतन्द्रः । दूतः । यजथाय । देवान्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0