ऋग्वेदसंहिता, पदपाठ · अध्याय 7.8
॥10॥.
-र्व्_5:2।11-
(र्व्_7,8)
इन्धे । राजा । सम् । अर्यः । नमः-भिः । यस्य । प्रतीकम् । आहुतम् । घृतेन । नरः । हव्येभिः । ईळते । स-बाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि
अयम् । ओं इति । स्यः । सु-महान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः । वि । भाः । अकर् इत्य् अकः । ससृजानः । पृथिव्याम् । कृष्ण-पविः । ओषधीभिः । ववक्षे
कया । नः । अग्ने । वि । वसः । सु-वृक्तिम् । काम् । ओं इति । स्वधाम् । ऋणवः । शस्यमानः । कदा । भवेम । पतयः । सु-दत्र । रायः । वन्तारः । दुस्तरस्य । साधोः
प्र-प्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः । अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच
असन् । इत् । त्वे इति । आहवनानि । भूरि । भुवः । विश्वेभिः । सु-मनाः । अनीकैः । स्तुतः । चित् । अग्ने । शृण्विषे । गृणानः । स्वयम् । वर्धस्व । तन्वम् । सु-जात
इदम् । वचः । शत-साः । सम्-सहस्रम् । उत् । अग्नये । जनिषीष्ट । द्वि-बहार्ः । शम् । यत् । स्तोतृ-भ्यः । आपये । भवाति । द्यु-मत् । अमीव-चातनम् । रक्षः-हा
नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो
इति । सहसः । वसूनाम् । इषम् । स्तोतृ-भ्यः । मघवत्-भ्यः । आनट् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0