भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.87

7.87.1

॥8॥.
-र्व्_5:6।9-
(र्व्_7,87)
रदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् । सर्गः । न । सृष्टः । अर्वतीः । ऋत-यन् । चकार । महीः । अवनीः । अह-भ्यः

7.87.2

आत्मा । ते । वातः । रजः । आ । नवीनोत् । पशुः । न । भूर्णिः । यवसे । सस-वान् । अन्तः । मही इति । बृहती इति । रोदसी इति । इमे इति । विश्वा । ते । धाम । वरुण । प्रियाणि

7.87.3

परि । स्पशः । वरुणस्य । स्मत्-इष्टाः । उभे इति । पश्यन्ति । रोदसी इति । सुमेके इतिसु-मेके । ऋत-वानः । कवयः । यज्ञ-धीराः । प्र-चेतसः । ये । इषयन्त । मन्म

7.87.4

उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति । विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन्

7.87.5

तिस्रः । द्यावः । नि-हिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्-विधानाः । गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्र-ईङ्खम् । हिरण्ययम् । शुभे । कम्

7.87.6

अव । सिन्धुम् । वरुणः । द्यौः-इव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् । गम्भीर-संसः । रजसः । वि-मानः । सुपार-क्षत्रः । सतः । अस्य । राजा

7.87.7

यः । मृळयाति । चकुषे । चित् । आगः । वयम् । स्याम । वरुणे । अनागाः । अनु । व्रतानि । अदितेः । ऋधन्तः । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc