ऋग्वेदसंहिता, पदपाठ · अध्याय 7.86
॥7॥.
-र्व्_5:6।8-
(र्व्_7,86)
धीरा । तु । अस्य । महिना । जनूंषि । वि । यः । तस्तम्भ । रोदसी इति । चित् । उर्वी इति । प्र । नाकम् । ऋष्वम् । नुनुदे । बृहन्तम् । द्विता । नक्षत्रम् । पप्रथत् । च । भूम
उत । स्वया । तन्वा । सम् । वदे । तत् । कदा । नु । अन्तः । वरुणे । भुवानि । किम् । मे । हव्यम् । अहृणानः । जुषेत । कदा । मृळीकम् । सु-मनाः । अभि । ख्यम्
पृच्छे । तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । वि-पृच्छम् । समानम् । इत् । मे । कवयः । चित् । आहुः । अयम् । ह । तुभ्यम् । वरुणः । हृणीते
किम् । आगः । आस । वरुण । ज्येष्ठम् । यत् । स्तोतारम् । जिघांससि । सखायम् । प्र । तत् । मे । वोचः । दुः-दभ । स्वधावः । अव । त्वा । अनेनाः । नमसा । तुरः । इयाम्
अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः । अव । राजन् । पशु-तृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम्
न । सः । स्वः । दक्षः । वरुण । ध्रुतिः । सा । सुरा । मन्युः । वि-भीदकः । अचित्तिः । अस्ति । ज्यायान् । कनीयसः । उप-अरे । स्वप्नः । चन । इत् । अनृतस्य । प्र-योता
अरम् । दासः । न । मीळ्हुषे । कराणि । अहम् । देवाय । भूर्णये । अनागाः । अचेतयत् । अचितः । देवः । अर्यः । गृत्सम् । राये । कवि-तरः । जुनाति
अयम् । सु । तुभ्यम् । वरुण । स्वधावः । हृदि । स्तोमः । उप-सृइतः । चित् । अस्तु । शम् । नः । क्षेमे । शम् । ओं इति । योगे । नः । अस्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0