भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.88

7.88.1

॥9॥.
-र्व्_5:6।10-
(र्व्_7,88)
प्र । शुन्ध्युवम् । वरुणाय । प्रेष्ठाम् । मतिम् । वसिष्ठ । मीळ्हुषे । भरस्व । यः । ईम् । अर्वाञ्चम् । करते । यजत्रम् । सहस्र-मघम् । वृषणम् । बृहन्तम्

7.88.2

अध । नु । अस्य । सम्-दृशम् । जगन्वान् । अग्नेः । अनीकम् । वरुणस्य । मंस् इ । स्वः । यत् । अश्मन् । अधि-पाः । ओं इति । अन्धः । अभि । मा । वपुः । दृशये । निनीयात्

7.88.3

आ । यत् । रुहाव । वरुणः । च । नावम् । प्र । यत् । समुद्रम् । ईरयाव । मध्यम् । अधि । यत् । अपाम् । स्नु-भिः । चराव । प्र । प्र-ईङ्खे । ईङ्खयावहै । शुभे । कम्

7.88.4

वसिष्ठम् । ह । वरुणः । नावि । आ । अधात् । ऋषिम् । चकार । सु-अपाः । महः-भिः । स्तोतारम् । विप्रः । सुदिन-त्वे । अह्वाम् । यात् । नु । द्यावः । ततनन् । यात् । उषसः

7.88.5

क्व । त्यानि । नौ । सख्या । बभूवुः । सचावहे इति । यत् । अवृकम् । पुरा । चित् । बृहन्तम् । मानम् । वरुण । स्वधावः । सहस्र-द्वारम् । जगम । गृहम् । ते

7.88.6

यः । आपिः । नित्यः । वरुण । प्रियः । सन् । त्वाम् । आगांसि । कृणवत् । सखा । ते । मा । ते । एनस्वन्तः । यक्षिन् । भुजेम । यन्धि । स्म । विप्रः । स्तुवते । वरूथम्

7.88.7

ध्रुवासु । त्वा । आसु । क्षितिषु । क्षियन्तः । वि । अस्मत् । पाशम् । वरुणः । मुमोचत् । अवः । वन्वानाः । अदितेः । उप-स्थात् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc