ऋग्वेदसंहिता, पदपाठ · अध्याय 7.85
॥6॥.
-र्व्_5:6।7-
(र्व्_7,85)
पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् । घृत-प्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके
स्पर्धन्ते । वै । ओं इति । देव-हूये । अत्र । येषु । ध्वजेषु । दिद्यवः । पतन्ति । युवम् । तान् । इन्द्रावरुणौ । अमित्रान् । हतम् । पराचः । शर्वा । विषूचः
आपः । चित् । हि । स्व-यशसः । सदः-सु । देवीः । इन्द्रम् । वरुणम् । देवता । धुरितिधुः । कृष्टीः । अन्यः । धारयति । प्र-विक्ताः । वृत्राणि । अन्यः । अप्रतीनि । हन्ति
सः । सु-क्रतुः । ऋत-चित् । अस्तु । होता । यः । आदित्या । शवसा । वाम् । नमस्वान् । आववर्तत् । अवसे । वाम् । हविष्मान् । असत् । इत् । सः । सुविताय । प्रयस्वान्
इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना । सु-रत्नासः । देव-वीतिम् । गमेम । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0