ऋग्वेदसंहिता, पदपाठ · अध्याय 7.84
॥5॥.
-र्व्_5:6।6-
(र्व्_7,84)
आ । वाम् । राजानौ । अध्वरे । ववृत्याम् । हव्येभिः । इन्द्रावरुणा । नमः-भिः । प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषु-रूपा । जिगाति
युवः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृ-भिः । अरज्जु-भिः । सिनीथः । परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ओं इति । लोकम्
कृतम् । नः । यज्ञम् । विदथेषु । चारुम् । कृतम् । ब्रह्माणि । सूरिषु । प्र-शस्ता । उपो इति । रयिः । देव-जूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊति-भिः । तिरेतम्
अस्मे इति । इन्द्रावरुणा । विश्व-वारम् । रयिम् । धत्तम् । वसु-मन्तम् । पुरु-क्षुम् । प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि
इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना । सु-रत्नासः । देव-वीतिम् । गमेम । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0