ऋग्वेदसंहिता, पदपाठ · अध्याय 7.83
॥3॥.
-र्व्_5:6।4-
(र्व्_7,83)
युवम् । नरा । पश्यमानासः । आप्यम् । प्राचा । गव्यन्तः । पृथु-पर्शवः । ययुः । दासा । च । वृत्रा । हतम् । आर्याणि । च । सु-दासम् । इन्द्रावरुणा । अवसा । अवतम्
यत्र । नरः । सम्-अयन्ते । कृत-ध्वजः । यस्मिन् । आजा । भवति । किम् । चन । प्रियम् । यत्र । भयन्ते । भुवना । स्वः-दृशः । तत्र । नः । इन्द्रावरुणा । अधि । वोचतम्
सम् । भूम्याः । अन्ताः । ध्वसिराः । अदृक्षत । इन्द्रावरुणा । दिवि । घोषः । आ । अरुहत् । अस्थुः । जनानाम् । उप । माम् । अरातयः । अर्वाक् । अवसा । हवन-श्रुता । आ । गतम्
इन्द्रावरुणा । वधनाभिः । अप्रति । भेदम् । वन्वन्ता । प्र । सु-दासम् । आवतम् । ब्रह्माणि । एषाम् । शृणुतम् । हविआमनि । सत्या । तृत्सूनाम् । अभवत् । पुरः-हितिः
इन्द्रावरुणौ । अभि । आ । तपन्ति । मा । अघानि । अर्यः । वनुषाम् । अरातयः । युवम् । हि । वस्वः । उभयस्य । राजथः । अध । स्म । नः । अवतम् । पार्ये । दिवि
॥4॥.
-र्व्_5:6।5-
युवाम् । हवन्ते । उभयासः । आजिषु । इन्द्रम् । च । वस्वः । वरुणम् । च । सातये । यत्र । राज-भिः । दश-भिः । नि-बाधितम् । प्र । सु-दासम् । आवतम् । तृत्सु-भिः । सह
दश । राजानः । सम्-इताः । अयज्यवः । सु-दासम् । इन्द्रावरुणा । न । युयुधुः । सत्या । नृणाम् । अद्म-सदाम् । उप-स्तुतिः । देवाः । एषाम् । अभवन् । देव-हूतिषु
दाश-राज्ञे । परि-यत्ताय । विश्वतः । सु-दासे । इन्द्रावरुणौ । अशिक्षतम् । श्वित्यञ्चः । यत्र । नमसा । कपर्दिनः । धिया । धी-वन्तः । असपन्त । तृत्सवः
वृत्राणि । अन्यः । सम्-इथेषु । जिघ्नते । व्रतानि । अन्यः । अभि । रक्षते । सदा । हवामहे । वाम् । वृषणा । सुवृक्ति-भिः । अस्मे इति । इन्द्रावरुणा । शर्म । यच्छतम्
अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । स-प्रथः । अवध्रम् । ज्योतिः । अदितेः । ऋत-वृधः । देवस्य । श्लोकम् । सवितुः । मनामहे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0