भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.82

7.82.1

॥1॥.
-र्व्_5:6।2-
(र्व्_7,82)
इन्द्रावरुणा । युवम् । अध्वराय । नः । विशे । जनाय । महि । शर्म । यच्छतम् । दीर्घ-प्रयज्युम् । अति । यः । वनुष्यति । वयम् । जयेम । पृतनासु । दुः-ध्यः

7.82.2

सम्-राट् । अन्यः । स्व-राट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसूइतिमहावसू । । विश्वे । देवासः । परमे । वि-ओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः

7.82.3

अनु । अपाम् । खानि । अतृन्तम् । ओजसा । सूर्यम् । ऐरयतम् । दिवि । प्र-भुम् । इन्द्रावरुणा । मदे । अस्य । मायिनः । अपिन्वतम् । अपितः । पिन्वतम् । धियः

7.82.4

युवाम् । इत् । युत्-सु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्र-सवे । मित-ज्ञवः । ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सु-हवा । हवामहे

7.82.5

इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना । क्षेमेण । मित्रः । वरुणम् । दुवस्यति । मरुत्-भिः । उग्रः । शुभम् । अन्यः । ईयते

7.82.6

॥2॥.
-र्व्_5:6।3-
महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमातेइति । ध्रुवम् । अस्य । यत् । स्वम् । अजामिम् । अन्यः । श्नथयन्तम् । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोत् इ । भूयसः

7.82.7

न । तम् । अंहः । न । दुः-इतानि । मर्त्यम् । इन्द्रावरुणा । न । तपः । कुतः । चन । यस्य । देवा । गच्छथः । वीथः । अध्वरम् । न । तम् । मर्तस्य । नशते । परि-ह्वृतिः

7.82.8

अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः । युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम्

7.82.9

अस्माकम् । इन्द्रावरुणा । भरे--भरे । पुरः-योधा । भवतम् । कृष्टि-ओजसा । यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु

7.82.10

अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । स-प्रथः । अवध्रम् । ज्योतिः । अदितेः । ऋत-वृधः । देवस्य । श्लोकम् । सवितुः । मनामहे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc