भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.81

7.81.1

॥27॥.
-र्व्_5:6।1-
(र्व्_7,81)
प्रति । ओं इति । अदर्शि । आयती । उच्छन्ती । दुहिता । दिवः । अपो इति । महि । व्ययति । चक्षसे । तमः । ज्योतिः । कृणोति । सूनरी

7.81.2

उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्-यत् । नक्षत्रम् । अर्चि-वत् । तव । इत् । उषः । वि-उषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि

7.81.3

प्रति । त्वा । दुहितः । दिवः । उषः । जीराः । अभुत्स्महि । या । वहसि । पुरु । स्पार्हम् । वनन्-वति । रत्नम् । न । दाशुषे । मयः

7.81.4

उच्छन्ती । या । कृणोषि । मंहना । महि । प्र-ख्यै । देवि । स्वः । दृशे । तस्याः । ते । रत्न-भाजः । ईमहे । वयम् । स्याम । मातुः । न । सूनवः

7.81.5

तत् । चित्रम् । राधः । आ । भर । उषः । यत् । दीर्घश्रुत्-तमम् । यत् । ते । दिवः । दुहि तः । मर्त-भोजनम् । तत् । रास्व । भुनजामहै

7.81.6

श्रवः । सूरि-भ्यः । अमृतम् । वसु-त्वनम् । वाजान् । अस्मभ्यम् । गो--मतः । चोदयित्री । मघोनः । सूनृतावती । उषाः । उच्छत् । अप । स्रिधः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc