ऋग्वेदसंहिता, पदपाठ · अध्याय 7.7
॥9॥.
-र्व्_5:2।10-
(र्व्_7,7)
प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमः-भिः । भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मित-दुः
आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः । आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि
प्राचीनः । यज्ञः । सु-धितम् । हि । बर्हिः । प्रीणीते । अग्निः । ईळितः । न । होता । आ । मातरा । विश्ववारेइतिविश्व-वारे । हुवानः । यतः । यविष्ठ । जज्ञिषे । सु-शेवः
सद्यः । अध्वरे । रथिरम् । जनन्त । मानुषासः । वि-चेतसः । यः । एषाम् । विशाम् । अधायि । विश्पतिः । दुरोणे । अग्निः । मन्द्रः । मधु-वचाः । ऋत-वा
असादि । वृतः । वह्निः । आजगन्वान् । अग्निः । ब्रह्मा । नृ-सदने । वि-धर्ता । द्यौः । च । यम् । पृथिवी । ववृधातेइति । आ । यम् । होता । यजति । विश्व-वारम्
एते । द्युम्नेभिः । विश्वम् । आ । अतिरन्त । मन्त्रम् । ये । वा । अरम् । नर्याः । अतक्षन् । प्र । ये । विशः । तिरन्त । श्रोषमाणाः । आ । ये । मे । अस्य । दीधयन् । ऋतस्य
नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् । इषम् । स्तोतृ-भ्यः । मघवत्-भ्यः । आनट् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0