ऋग्वेदसंहिता, पदपाठ · अध्याय 7.78
॥24॥.
-र्व्_5:5।25-
(र्व्_7,78)
प्रति । केतवः । प्रथमाः । अदृश्रन् । ऊर्ध्वाः । अस्याः । अञ्जयः । वि । श्रयन्ते । उषः । अर्वाचा । बृहता । रथेन । ज्योतिष्मता । वामम् । अस्मभ्यम् । वक्षि
प्रति । सीम् । अग्निः । जरते । सम्-इद्धः । प्रति । विप्रासः । मति-भिः । गृणन्तः । उषाः । याति । ज्योतिषा । बाधमाना । विश्वा । तमांसि । दुः-इता । अप । देवी
एताः । ओं इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । वि-भातीः । अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम्
अचेति । दिवः । दुहिता । मघोनी । विश्वे । पश्यन्ति । उषसम् । वि-भातीम् । आ । अस्थात् । रथम् । स्वधया । युज्यमानम् । आ । यम् । अश्वासः । सु-युजः । वहन्ति
प्रति । त्वा । अद्य । सु-मनसः । बुधन्त । अस्माकासः । मघ-वानः । वयम् । च । तिल्विलायध्वम् । उषसः । वि-भातीः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0