ऋग्वेदसंहिता, पदपाठ · अध्याय 7.79
॥25॥.
-र्व्_5:5।26-
(र्व्_7,79)
वि । उषाः । आवः । पथ्या । जनानाम् । पञ्च । क्षितीः । मानुषीः । बोधयन्ती । सुसन्दृक्-भिः । उक्ष-भिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवर् इत्य् आवः
वि । अञ्जते । दिवः । अन्तेषु । अक्तून् । विशः । न । युक्ताः । उषसः । यतन्ते । सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताइव । बाहू इति
अभूत् । उषाः । इन्द्र-तमा । मघोनी । अजीजनत् । सुविताय । श्रवांसि । वि । दिवः । देवी । दुहिता । दधाति । अङ्गिरः-तमा । सु-कृते । वसूनि
तावत् । उषः । राधः । अस्मभ्यम् । रास्व । यावत् । स्तोतृ-भ्यः । अरदः । गृणाना । याम् । त्वा । जज्ञुः । वृषभस्य । रवेण । वि । दृळ्हस्य । दुरः । अद्रेः । और्णोः
देवम्-देवम् । राधसे । चोदयन्ती । अस्मद्र्यक् । सूनृताः । ईरयन्ती । वि-उच्छन्ती । नः । सनये । धियः । धाः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0