भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.77

7.77.1

॥23॥.
-र्व्_5:5।24-
(र्व्_7,77)
उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्र-सुवन्ती । चरायै । अभूत् । अग्निः । सम्-इधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि

7.77.2

विश्वम् । प्रतीची । स-प्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् । हिरण्य-वर्णा । सुदृशीक-सन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि

7.77.3

देवानाम् । चक्षुः । सु-भगा । वहन्ती । श्वेतम् । नयन्ती । सु-दृशीकम् । अश्वम् । उषाः । अदर्शि । रश्मि-भिः । वि-अक्ता । चित्र-मघा । विश्वम् । अनु । प्र-भूता

7.77.4

अन्ति-वामा । दूरे । अमित्रम् । उच्छ । उर्वीम् । गव्यूतिम् । अभयम् । कृधि । नः । यवय । द्वेषः । आ । भर । वसूनि । चोदय । राधः । गृणते । मघोनि

7.77.5

अस्मे इति । श्रेष्ठेभिः । भानु-भिः । वि । भाहि । उषः । देवि । प्र-तिरन्ती । नः । आयुः । इषम् । च । नः । दधती । विश्व-वारे । गो--मत् । अश्व-वत् । रथ-वत् । च । राधः

7.77.6

यान् । त्वा । दिवः । दुहितः । वर्धयन्ति । उषः । सु-जाते । मति-भिः । वसिष्ठाः । सा । अस्मासु । धाः । रयिम् । ऋष्वम् । बृहन्तम् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc