ऋग्वेदसंहिता, पदपाठ · अध्याय 7.76
॥22॥.
-र्व्_5:5।23-
(र्व्_7,76)
उत् । ओं इति । ज्योतिः । अमृतम् । विश्व-जन्यम् । विश्वानरः । सविता । देवः । अश्रेत् । क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः
प्र । मे । पन्था । देव-यानाः । अदृश्रन् । अमर्धन्तः । वसु-भिः । इष्कृतासः । अभूत् । ओं इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः
तानि । इत् । अहानि । बहुलानि । आसन् । या । प्राचीनम् । उत्-इता । सूर्यस्य । यतः । परि । जारः-इव । आचरन्ती । उषः । ददृक्षे । न । पुनः । यती-इव
ते । इत् । देवानाम् । सध-मादः । आसन् । ऋत-वानः । कवयः । पूर्व्यासः । गूळ्हम् । ज्योतिः । पितरः । अनु । अविन्दन् । सत्य-मन्त्राः । अजनयन् । उषसम्
समाने । ऊर्वे । अधि । सम्-गतासः । सम् । जानते । न । यतन्ते । मिथः । ते । ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसु-भिः । यादमानाः
प्रति । त्वा । स्तोमैः । ईळते । वसिष्ठाः । उषः-बुधः । सु-भगे । तुस्तु-वांसः । गवाम् । नेत्री । वाज-पत्नी । नः । उच्छ । उषः । सु-जाते । प्रथमा । जरस्व
एषा । नेत्री । राधसः । सूनृतानाम् । उषाः । उच्छन्ती । रिभ्यते । वसिष्ठैः । दीर्घ-श्रुतम् । रयिम् । अस्मे इति । दधाना । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0