ऋग्वेदसंहिता, पदपाठ · अध्याय 7.75
॥21॥.
-र्व्_5:5।22-
(र्व्_7,75)
वि । उषाः । आवः । दिवि-जाः । ऋतेन । आविः-कृण्वाना । महिमानम् । आ । अगात् । अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरः-तमा । पथ्याः । अजीगरिति
महे । नः । अद्य । सुविताय । बोधि । उषः । महे । सौभगाय । प्र । यन्धि । चित्रम् । रयिम् । यशसम् । धेहि । अस्मे इति । देवि । मर्तेषु । मानुषि । श्रवस्युम्
एते । त्ये । भानवः । दर्शतायाः । चित्राः । उषसः । अमृतासः । आ । अगुः । जनयन्तः । दैव्यानि । व्रतानि । आपृणन्तः । अन्तरिक्षा । वि । अस्थुः
एषा । स्या । युजाना । पराकात् । पञ्च । क्षितीः । परि । सद्यः । जिगाति । अभि-पश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी
वाजिनी-वती । सूर्यस्य । योषा । चित्र-मघा । रायः । ईशे । वसूनाम् । ऋषि-स्तुता । जरयन्ती । मघोनी । उषाः । उच्छति । वह्नि-भिः । गृणाना
प्रति । द्युतानाम् । अरुषासः । अश्वाः । चित्राः । अदृश्रन् । उषसम् । वहन्तः । याति । शुभ्रा । विश्व-पिशा । रथेन । दधाति । रत्नम् । विधते । जनाय
सत्या । सत्येभिः । महती । महत्-भिः । देवी । देवेभिः । यजता । यजत्रैः । रुजत् । दृळ्हानि । ददत् । उस्रियानाम् । प्रति । गावः । उषसम् । वावशन्त
नु । नः । गो--मत् । वीर-वत् । धेहि । रत्नम् । उषः । अश्व-वत् । पुरु-भोजः । अस्मे इति । मा । नः । बर्हिः । पुरुषता । निदे । कः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0