ऋग्वेदसंहिता, पदपाठ · अध्याय 7.74
॥20॥.
-र्व्_5:5।21-
(र्व्_7,74)
इमाः । ओं इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसूइतिशची-वसू । विशम्-विशम् । हि । गच्छथः
युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृतावते । अर्वाक् । रथम् । स-मनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु
आ । यातम् । उप । भूषतम् । मध्वः । पिबतम् । अश्विना । दुग्धम् । पयः । मा । नः । मर्धिष्टम् । आ । गतम्
अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः । मक्षुयु-भिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्य् अस्म-यू
अध । ह । यन्तः । अश्विना । पृक्षः । सचन्त । सूरयः । ता । यंसतः । मघवत्-भ्यः । ध्रुवम् । यशः । छर्दिः । अस्मभ्यम् । नासत्या
प्र । ये । ययुः । अवृकासः । रथाः-इव । नृ-पातारः । जनानाम् । उत । स्वेन । शवसा । शूशुवुः । नरः । उत । क्षियन्ति । सु-क्षितिम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0