भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.73

7.73.1

॥19॥.
-र्व्_5:5।20-
(र्व्_7,73)
अतारिष्म । तमसः । पारम् । अस्य । प्रति । स्तोमम् । देव-यन्तः । दधानाः । पुरु-दंसा । पुरु-तमा । पुराजा । अमर्त्या । हवते । अश्विना । गीः

7.73.2

नि । ओं इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान्

7.73.3

अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सु-वृक्तिम् । वृषणा । जुषेथाम् । श्रुष्टीवाइव । प्र-इषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः

7.73.4

उप । त्या । वह्नी इति । गमतः । विशम् । नः । रक्षः-हना । सम्-भृता । वीळुपाणी इतिवीळु-पाणी । सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन

7.73.5

आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् । आ । विश्वतः । पाञ्च-जन्येन । राया । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc