ऋग्वेदसंहिता, पदपाठ · अध्याय 7.72
॥18॥.
-र्व्_5:5।19-
(र्व्_7,72)
आ । गो--मता । नासत्या । रथेन । अश्व-वता । पुरु-चन्द्रेण । यातम् । अभि । वाम् । विश्वाः । नि-युतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना
आ । नः । देवेभिः । उप । यातम् । अर्वाक् । स-जोषसा । नासत्या । रथेन । युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम्
उत् । ओं इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः । आविवासन् । रोदसी इति । धिष्ण्येइति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति
वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते । ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्-इधा । जरन्ते
आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् । आ । विश्वतः । पाञ्च-जन्येन । राया । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0