भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.71

7.71.1

॥17॥.
-र्व्_5:5।18-
(र्व्_7,71)
अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृष्णीः । अरुषाय । पन्थाम् । अश्व-मघा । गो--मघा । वाम् । हुवेम । दिवा । नक्तम् । शरुम् । अस्मत् । युयोतम्

7.71.2

उप-आयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता । युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः

7.71.3

आ । वाम् । रथम् । अवमस्याम् । वि-उष्टौ । सुम्न-यवः । वृषणः । वर्तयन्तु । स्यूम-गभस्तिम् । ऋतयुक्-भिः । अश्वैः । आ । अश्विना । वसु-मन्तम् । वहेथाम्

7.71.4

यः । वाम् । रथः । नृपती इतिनृ-पती । अस्ति । वोळ्हा । त्रि-वन्धुरः । वसु-मान् । उस्र-यामा । आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्व-प्स्न्यः । जिगाति

7.71.5

युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् । नि ः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरि ति

7.71.6

इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सु-वृक्तिम् । वृषणा । जुषेथाम् । इमा । ब्रह्माणि । युव-यूनि । अग्मन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc