भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.70

7.70.1

॥16॥.
-र्व्_5:5।17-
(र्व्_7,70)
आ । विश्व-वारा । अश्विना । गतम् । नः । प्र । तत् । स्थानम् । अवाचि । वाम् । पृथिव्याम् । अश्वः । न । वाजी । शुन-पृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम्

7.70.2

सिसक्ति । सा । वाम् । सु-मतिः । चनिष्ठा । अतापि । घर्मः । मनुषः । दुरोणे । यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एत-ग्वा । चित् । न । सु-युजा । युजानः

7.70.3

यानि । स्थानानि । अश्विना । दधाथेइति । दिवः । यह्वीषु । ओषधीषु । विक्षु । नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता

7.70.4

चनिष्टम् । देवौ । ओषधीषु । अप्-सु । यत् । योग्याः । अश्नवैथेइति । ऋषीणाम् । पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि

7.70.5

शुश्रुवांसा । चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथेइति । ऋषीणाम् । प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सु-मतिः । चनिष्ठा

7.70.6

यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृत-ब्रह्मा । स-मर्यः । भवाति । उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युव-भ्याम्

7.70.7

इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सु-वृक्तिम् । वृषणा । जुषेथाम् । इमा । ब्रह्माणि । युव-यूनि । अग्मन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc