ऋग्वेदसंहिता, पदपाठ · अध्याय 7.69
॥15॥.
-र्व्_5:5।16-
(र्व्_7,69)
आ । वाम् । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृष-भिः । यातु । अश्वैः । घृत-वर्तनिः । पवि-भिः । रुचानः । इषाम् । वोळ्हा । नृ-पतिः । वाजिनी-वान्
सः । पप्रथानः । अभि । पञ्च । भूम । त्रि-वन्धुरः । मनसा । यातु । युक्तः । विशः । येन । गच्छथः । देव-यन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना
सु-अश्वा । यशसा । आ । यातम् । अर्वाक् । दस्रा । नि-धिम् । मधु-मन्तम् । पिबाथः । वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनि-भ्याम्
युवोः । श्रियम् परि । योषा । अवृणीत । सूरः । दुहिता । परि-तक्म्यायाम् । यत् । देव-यन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात्
यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परि-याति । वर्तिः । तेन । नः । शम् । योः । उषसः । वि-उष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन्
नरा । गौराइव । वि-द्युतम् । तृषाणा । अस्माकम् । अद्य । सवना । उप । यातम् । पुरु-त्रा । हि । वाम् । मति-भिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देव-यन्तः
युवम् । भुज्युम् । अव-विद्धम् । समुद्रे । उत् । ऊहथुः । अर्णसः । अस्रिधानैः । पतत्रि-भिः । अश्रमैः । अव्यथि-भिः । दंसनाभिः । अश्विना । पारयन्ता
नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इरावत् । धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0