भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.6

7.6.1

॥8॥.
-र्व्_5:2।9-
(र्व्_7,6)
प्र । सम्-राजः । असुरस्य । प्र-शस्तिम् । पुंसः । कृष्टीनाम् । अनु-माद्यस्य । इन्द्रस्य-इव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि

7.6.2

कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः । पुरम्-दरस्य । गीः-भिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि

7.6.3

नि । अक्रतून् । ग्रथिनः । मृध्र-वाचः । पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् । प्र-प्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून्

7.6.4

यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृ-तमः । शचीभिः । तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून्

7.6.5

यः । देह्यः । अनमयत् । वध-स्नैः । यः । अर्य-पत्नीः । उषसः । चकार । सः । नि-रुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलि-हृतः । सहः-भिः

7.6.6

यस्य । शर्मन् । उप । विश्वे । जनासः । एवैः । तस्थुः । सु-मतिम् । भिक्षमाणाः । वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उप-स्थम्

7.6.7

आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्-इता । सूर्यस्य । आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc