ऋग्वेदसंहिता, पदपाठ · अध्याय 7.66
॥7॥.
-र्व्_5:5।8-
(र्व्_7,66)
प्र । मित्रयोः । वरुणयोः । स्तोमः । नः । एतु । शूष्यः । नमस्वान् । तुवि-जातयोः
या । धारयन्त । देवाः । सु-दक्षा । दक्ष-पितरा । असुर्याय । प्र-महसा
ता । नः । स्ति-पा । तनू-पा । वरुण । जरितॄणाम् । मित्र । साधयतम् । धियः
यत् । अद्य । सूरे । उत्-इते । अनागाः । मित्रः । अर्यमा । सुवाति । सविता । भगः
सुप्र-अवीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सु-दानवः । ये । नः । अंहः । अति-पिप्रति
॥8॥.
-र्व्_5:5।9-
उत । स्व-राजः । अदितिः । अदब्धस्य । व्रतस्य । ये । महः । राजानः । ईशते
प्रति । वाम् । सूरे । उत्-इते । मित्रम् । गृणीषे । वरुणम् । अर्यमणम् । रिशादसम्
राया । हिरण्य-या । मतिः । इयम् । अवृकाय । शवसे । इयम् । विप्रा । मेध-सातये
ते । स्याम । देव । वरुण । ते । मित्र । सूरि-भिः । सह । इषम् । स्वर् इति स्वः । च । धीमहि
बहवः । सूर-चक्षसः । अग्नि-जिह्वाः । ऋत-वृधः । त्रीणि । ये । येमुः । वि दथानि । धीति-भिः । विश्वानि । परिभूति-भिः
॥9॥.
-र्व्_5:5।10-
वि । ये । दधुः । शरदम् । मासम् । आत् । अहः । यज्ञम् । अक्तुम् । च । आत् । ऋचम् । अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत
तत् । वः । अद्य । मनामहे । सु-उक्तैः । सूरे । उत्-इते । यत् । ओहते । वरुणः । मित्रः । अर्यमा । यूयम् । ऋतस्य । रथ्यः
ऋत-वानः । ऋत-जाताः । ऋत-वृधः । घोरासः । अनृत-द्विषः । तेषाम् । वः । सुम्ने । सुच्छर्दिः-तमे । नरः । स्याम । ये । च । सूरयः
उत् । ओं इति । त्यत् । दर्शतम् । वपुः । दिवः । एति । प्रति-ह्वरे । यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम्
शीर्ष्णः-शीर्ष्णः । जगतः । तस्थुषः । पतिम् । समया । विश्वम् । आ । रजः । सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे
॥10॥.
-र्व्_5:5।11-
तत् । चक्षुः । देव-हितम् । शुक्रम् । उत्-चरत् । पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम्
काव्येभिः । अदाभ्या । आ । यातम् । वरुण । द्यु-मत् । मित्रः । च । सोम-पीतये
दिवः । धाम-भिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा । पिबतम् । सोमम् । आतुजी इत्य् आतुजी
आ । यातम् । मित्रावरुणा । जुषाणौ । आहुतिम् । नरा । पातम् । सोमम् । ऋत-वृधा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0