ऋग्वेदसंहिता, पदपाठ · अध्याय 7.67
॥11॥.
-र्व्_5:5।12-
(र्व्_7,67)
प्रति । वाम् । रथम् । नृपती- इतिनृ-पती । जरध्यै । हविष्मता । मनसा । यज्ञियेन । यह् । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि
अशोचि । अग्निः । सम्-इधानः । अस्मे इति । उपो इति । अदृश्रन् । तमसः । चित् । अन्ताः । अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । द् इवः । दुहितुः । जायमानः
अभि । वाम् । नूनम् । अश्विना । सु-होता । स्तोमैः । सिसक्ति । नासत्या । विवक्वान् । पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वः-विदा । वसु-मता । रथेन
अवोः । वाम् । नूनम् । अश्विना । युवाकुः । हुवे । यत् । वाम् । सुते । माध्वी इति । वसु-युः । आ । वाम् । वहन्तु । स्थविरासः । अश्वाः । पिबाथः । अस्मे इति । सु-सुता । मधूनि
प्राचीम् । ओं इति । देवा । अश्विना । धियम् । मे । अमृध्राम् । सातये । कृतम् । वसु-युम् । विश्वाः । अविष्टम् । वाजे । आ । पुरम्-धीः । ता । नः । शक्तम् । शचीपती इतिशची-पती । शचीभिः
॥12॥.
-र्व्_5:5।13-
अविष्टम् । धीषु । अश्विना । नः । आसु । प्रजावत् । रेतः । अह्रयम् । नः । अस्तु । आ । वाम् । तोके । तनये । तूतुजानाः । सु-रत्नासः । देव-वीतिम् । गमेम
एषः । स्यः । वाम् । पूर्वगत्वाइव । सख्ये । नि-धिः । हितः । माध्वी इति । रातः । अस्मे इति । अहेळता । मनसा । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु
एकस्मिन् । योगे । भुरणा । समाने । परि । वाम् । सप्त । स्रवतः । रथः । गात् । न । वायन्ति । सु-भ्वः । देव-युक्ताः । ये । वाम् । धूः-सु । तरणयः । वहन्ति
असश्चता । मघवत्-भ्यः । हि । भूतम् । ये । राया । मघ-देयम् । जुनन्ति । प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि
नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इरावत् । धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0