ऋग्वेदसंहिता, पदपाठ · अध्याय 7.65
॥6॥.
-र्व्_5:5।7-
(र्व्_7,65)
प्रति । वाम् । सूरे । उत्-इते । सु-उक्तैः । मित्रम् । हुवे । वरुणम् । पूत-दक्षम् । ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आचिता । जिगत्नु
ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः । अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च
ता । भूरि-पाशौ । अनृतस्य । सेतूइति । दुरत्येतूइतिदुः-अत्येतू । रिपवे । मर्त्याय । ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुः-इता । तरेम
आ । नः । मित्रावरुणा । हव्य-जुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः । प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः
एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्-धीः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0