ऋग्वेदसंहिता, पदपाठ · अध्याय 7.64
॥5॥.
-र्व्_5:5।6-
(र्व्_7,64)
दिवि । क्षयन्ता । रजसः । पृथिव्याम् । प्र । वाम् । घृतस्य । निः-निजः । ददीरन् । हव्यम् । नः । मित्रः । अर्यमा । सु-जातः । राजा । सु-क्षत्रः । वरुणः । जुषन्त
आ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इतिसिन्धु-पती । क्षत्रिया । यातम् । अर्वाक् । इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरदानू इति जीर-दानू
मित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथि-भिः । नयन्तु । ब्रवत् । यथा । नः । आत् । अरिः । सु-दासे । इषा । मदेम । सह । देव-गोपाः
यः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च । उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सु-क्षितीः । तर्पयेथाम्
एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्-धीः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0