ऋग्वेदसंहिता, पदपाठ · अध्याय 7.63
॥4॥.
-र्व्_5:5।5-
(र्व्_7,63)
उत् । ओं इति । एति । सु-भगः । विश्व-चक्षाः । साधारणः । सूर्यः । मानुषाणाम् । चक्षुः । मित्रस्य । वरुणस्य । देवः । चर्म-इव । यः । सम्-अविव्यक् । तमांसि
उत् । ओं इति । एति । प्र-सवीता । जनानाम् । महान् । केतुः । अर्णवः । सूर्यस्य । समानम् । चक्रम् । परि-आविवृत्सन् । यत् । एतशः । वहति । धूर्षु । युक्तः
वि-भ्राजमानः । उषसाम् । उप-स्थात् । रेभैः । उत् । एति । अनु-मद्यमानः । एषः । मे । देवः । सविता । चच्छन्द । यः । समानम् । न । प्र-मिनाति । धाम
दिवः । रुक्मः । उरु-चक्षाः । उत् । एति । दूरे--अर्थः । तरणिः । भ्राजमानः । नूनम् । जनाः । सूर्येण । प्र-सूताः । अयन् । अर्थानि । कृणवन् । अपांसि
यत्र । चक्रुः । अमृताः । गातुम् । अस्मै । श्येनः । न । दीयन् । अनु । एति । पाथः । प्रति । वाम् । सूरे । उत्-इते । विधेम । नमः-भिः । मित्रावरुणा । उत । हव्यैः
नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु । सु-गा । नः । विश्वा । सु-पथानि । सन्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0