भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.62

7.62.1

॥3॥.
-र्व्_5:5।4-
(र्व्_7,62)
उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् । समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सु-कृतः । कर्तृ-भिः । भूत्

7.62.2

सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः । प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च

7.62.3

वि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋत-वानः । वरुणः । मित्रः । अग्निः । यच्छन्तु । चन्द्राः । उप-मम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः

7.62.4

द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सु-जनिमानः । ऋष्वेइति । मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रिय-तमस्य । नृणाम्

7.62.5

प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन । आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा

7.62.6

नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु । सु-गा । नः । विश्वा । सु-पथानि । सन्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc