ऋग्वेदसंहिता, पदपाठ · अध्याय 7.61
॥2॥.
-र्व्_5:5।3-
(र्व्_7,61)
उत् । वाम् । चक्षुः । वरुणा । सु-प्रतीकम् । देवयोः । एति । सूर्यः । ततन्वान् । अभि । यः । विश्वा । भुवनानि । चष्टे । सः । मन्युम् । मर्त्येषु । आ । चिकेत
प्र । वाम् । सः । मित्रावरुणौ । ऋत-वा । विप्रः । मन्मानि । दीर्घ-श्रुत् । इयर्ति । यस्य । ब्रह्माणि । सुक्रतूइतिसु-क्रतू । अवाथः । आ । यत् । क्रत्वा । न । शरदः । पृणैथे
प्र । उरोः । मित्रावरुणा । पृथिव्याः । प्र । दिवः । ऋष्वात् । बृहतः । सुदानूइतिसु-दानू । स्पशः । दधाथेइति । ओषधीषु । विक्षु । ऋधक् । यतः । अनि-मिषम् । रक्षमाणा
शंसा । मित्रस्य । वरुणस्य । धाम । शुष्मः । रोदसी इति । बद्बधे । महि-त्वा । अयन् । मासाः । अयज्वनाम् । अवीराः । प्र । यज्ञ-मन्मा । वृजनम् । तिराते
अमूरा । विश्वा । वृषणौ । इमाः । वाम् । न । यासु । चित्रम् । ददृशे । न । यक्षम् । दुहः । सचन्ते । अनृता । जनानाम् । न । वाम् । निण्यानि । अचिते । अभूवन्
सम् । ओं इति । वाम् । यज्ञम् । महयम् । नमः-भिः । हुवे । वाम् । मित्रावरुणा । स-बाधः । प्र । वाम् । मन्मानि । ऋचसे । नवानि । कृतानि । ब्रह्म । जुजुषन् । इमानि
इयम् । देव । पुरः-हितिः । युव-भ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि । विश्वानि । दुः-गा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0