ऋग्वेदसंहिता, पदपाठ · अध्याय 7.60
॥30॥.
-र्व्_5:5।1-
(र्व्_7,60)
यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्-यन् । मित्राय । वरुणाय । सत्यम् । वयम् । देव-त्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः
एषः । स्यः । मित्रावरुणा । नृ-चक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् । विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन्
अयुक्त । सप्त । हरितः । सध-स्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः । धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाइव । जनिमानि । चष्टे
उत् । वाम् । पृक्षासः । मधु-मन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । स-जोषाः
इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति । इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः
इमे । मित्रः । वरुणः । दुः-दभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः । अपि । क्रतुम् । सुचेतसम् । वतन्तः । तिरः । चित् । अंहः । सु-पथा । नयन्ति
॥1॥.
-र्व्_5:5।2-
इमे । दिवः । अनि-मिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति । प्र-व्राजे । चित् । नद्यः । गाधम् । असि । पारम् । नः । अस्य । विष्पितस्य । पर्षन्
यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सु-दासे । तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देव-हेळनम् । तुरासः
अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुण-ध्रितः । सः । परि । द्वेषः-भिः । अर्यमा । वृणक्तु । उरुम् । सु-दासे । वृषणौ । ओं इति । लोकम्
सस्वरिति । चित् । हि । सम्-ऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते । युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः
यः । ब्रह्मणे । सु-मतिम् । आयजाते । वाजस्य । सातौ । परमस्य । रायः । सीक्षन्त । मन्युम् । मघ-वानः । अर्यः । उरु । क्षयाय । चक्रिरे । सु-धातु
इयम् । देव । पुरः-हितिः । युव-भ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि । विश्वानि । दुः-गा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0