ऋग्वेदसंहिता, पदपाठ · अध्याय 7.59
॥28॥.
-र्व्_5:4।29-
(र्व्_7,59)
यम् । त्रायध्वे । इदम्-इदम् । देवासः । यम् । च । नयथ । तस्मै । अग्ने । वरुण । मित्र । अर्यमन् । मरुतः । शर्म । यच्छत
युष्माकम् । देवाः । अवसा । अहनि । प्रिये । ईजानः । तरति । द्विषः । प्र । सः । क्षयम् । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति
नहि । वः । चरमम् । चन । वसिष्ठः । परि-मंसते । अस्माकम् । अद्य । मरुतः । सुते । सचा । विश्वे । पिबत । कामिनः
नहि । वः । ऊतिः । पृतनासु । मर्धति । यस्मै । अराध्वम् । नरः । अभि । वः । आ । अवार्त । सु-मतिः । नवीयसी । तूयम् । यात । पिपीषवः
ओ इति । सु । घृष्वि-राधसः । यातन । अन्धांसि । पीतये । इमा । वः । हव्या । मरुतः । ररे । हि । कम् । मो इति । सु । अन्यत्र । गन्तन
आ । चः । नः । बर्हिः । सदत । अवित । च । नः । स्पार्हाणि । दातवे । वसु । अस्रेधन्तः । मरुतः । सोम्ये । मधौ । स्वाहा । इह । मादयाध्वै
॥29॥.
-र्व्_5:4।30-
सस्वरिति । चित् । हि । तन्वः । शुम्भमानाः । आ । हंसासः । नील-पृष्ठाः । अपप्तन् । विश्वम् । शर्धः । अभितः । मा । नि । सेद । नरः । न । रण्वाः । सवने । मदन्तः
यः । नः । मरुतः । अभि । दुः-हृणायुः । तिरः । चित्तानि । वसवः । जिघांसति । द्रुहः । पाशान् । प्रति । सः । मुचीष्ट । तपिष्टेन । हन्मना । हन्तन । तम्
सान्-तपनाः । इदम् । हविः । मरुतः । तत् । जुजुष्टन । युष्माक । ऊती । रिशादसः
गृह-मेधासः । आ । गत । मरुतः । मा । अप । भूतन । युष्माक । ऊती । सु-दानवः
इह-इह । वः । स्व-तवसः । कवयः । सूर्य-त्वचः । यज्ञम् । मरुतः । आ । वृणे
त्र्यम्बकम् । यजामहे । सुगन्धिम् । पुष्टि-वर्धनम् । उर्वारुकम्-इव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0