ऋग्वेदसंहिता, पदपाठ · अध्याय 7.5
॥6॥.
-र्व्_5:2।7-
(र्व्_7,5)
प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः । यः । व् इश्वेषाम् । अमृतानाम् । उप-स्थे । वैश्वानरः । ववृधे । जागृवत्-भिः
पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् । सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण
त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि । वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः
तव । त्रि-धातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त । त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः
त्वाम् । अग्ने । हरितः । वावशानाः । गिरः । सचन्ते । धुनयः । घृताचीः । पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम्
॥7॥.
-र्व्_5:2।8-
त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्र-महः । जुषन्त । त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय
सः । जायमानः । परमे । वि-ओमन् । वायुः । न । पाथः । परि । पासि । सद्यः । त्वम् । भुवना । जनयन् । अभि । ऋन् । अपत्याय । जात-वेदः । दशस्यन्
ताम् । अग्ने । अस्मे इति । इषम् । आ । ईरयस्व । वैश्वानर । द्यु-मतीम् । जात-वेदः । यया । राधः । पिन्वसि । विश्व-वार । पृथु । श्रवः । दाशुषे । मर्त्याय
तम् । नः । अग्ने । मघवत्-भ्यः । पुरु-क्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व । वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसु-भिः । स-जोषाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0