भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.58

7.58.1

॥27॥.
-र्व्_5:4।28-
(र्व्_7,58)
प्र । साकम्-उक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् । उत । क्षोदन्ति । रोदसी इति । महि-त्वा । नक्षन्ते । नाकम् । निः-ऋतेः । अवंशात्

7.58.2

जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुवि-मन्यवः । अयासः । प्र । ये । महः-भिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वः-दृक्

7.58.3

बृहत् । वयः । मघवत्-भ्यः । दधात । जुजोषन् । इत् । मरुतः । सु-स्तुतिम् । नः । गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊति-भिः । तिरेत

7.58.4

युष्माऊतः । विप्रः । मरुतः । शतस्वी । युष्माऊतः । अर्वा । सहुरिः । सहस्री । युष्माऊतः । सम्-राट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम्

7.58.5

तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः । यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम्

7.58.6

प्र । सा । वाचि । सु-स्तुतिः । मघोनाम् । इदम् । सु-उक्तम् । मरुतः । जुषन्त । आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc