ऋग्वेदसंहिता, पदपाठ · अध्याय 7.57
॥26॥.
-र्व्_5:4।27-
(र्व्_7,57)
मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति । ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः
निचेतारः । हि । मरुतः । गृणन्तम् । प्र-नेतारः । यजमानस्य । मन्म । अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः
न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः । आ । रोदसी इति । विश्व-पिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम्
ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम । मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सु-मतिः । चनिष्ठा
कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः । प्र । नः । अवत । सुमति-भिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः
उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नाम-भिः । नरः । हवींषि । ददात । नः । अमृतस्य । प्र-जायै । जिगृत । रायः । सूनृता । मघानि
आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्व-ताता । जिगात । ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0