भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.56

7.56.1

॥22॥.
-र्व्_5:4।23-
(र्व्_7,56)
के । ईम् । वि-अक्ताः । नरः । स-नीळाः । रुद्रस्य । मर्याः । अध । सु-अश्वाः

7.56.2

नकिः । हि । एषाम् । जनूंषि । वेदे । ते । अङ्ग । विद्रे । मिथः । जनित्रम्

7.56.3

अभि । स्व-पूभिः । मिथः । वपन्त । वात-स्वनसः । श्येनाः । अस्पृध्रन्

7.56.4

एतानि । धीरः । निण्या । चिकेत । पृश्निः । यत् । ऊधः । मही । जभार

7.56.5

सा । विट् । सु-वीरा । मरुत्-भिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम्

7.56.6

यामम् । येष्ठाः । शुभा । शोभिष्ठाः । श्रिया । सम्-मिश्लाः । ओजः-भिः । उग्राः

7.56.7

उग्रम् । वः । ओजः । स्थिरा । शवांसि । अध । मरुत्-भिः । गणः । तुविष्मान्

7.56.8

शुभ्रः । वः । शुष्मः । क्रुध्मी । मनांसि । धुनिः । मुनिः-इव । शर्धस्य । धृष्णोः

7.56.9

सनेमि । अस्मत् । युयोत । दिद्युम् । मा । वः । दुः-मतिः । इह । प्रणक् । नः

7.56.10

प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः

7.56.11

॥23॥.
-र्व्_5:4।24-
सु-आयुधासः । इष्मिणः । सु-निष्काः । उत । स्वयम् । तन्वः । शुम्भमानाः

7.56.12

शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचि-भ्यः । ऋतेन । सत्यम् । ऋत-सापः । आयन् । शुचि-जन्मानः । शुचयः । पावकाः

7.56.13

अंसेषु । आ । मरुतः । खादयः । वः । वक्षः-सु । रुक्माः । उप-शिश्रियाणाः । वि । विद्युतः । न । वृष्टि-भिः । रुचानाः । अनु । स्वधाम् आयुधैर् यच्छमानाः

7.56.14

प्र । बुध्न्या । वः । ईरते । महांसि । प्र । नामानि । प्र-यज्यवः । तिरध्वम् । सहस्रियम् । दम्यम् । भागम् । एतम् । गृह-मेधीयम् । मरुतः । जुषध्वम्

7.56.15

यदि । स्तुतस्य । मरुतः । अधिथ । इत्था । विप्रस्य । वाजिनः । हवीमन् । मक्षु । रायः । सु-वीर्यस्य । दात । नु । चित् । यम् । अन्यः । आदभत् । अरावा

7.56.16

॥24॥.
-र्व्_5:4।25-
अत्यासः । न । ये । मरुतः । सु-अञ्चः । यक्ष-दृशः । न । शुभयन्त । मयार्ः । ते । हर्म्ये--स्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्र-कीळिनः । पयः-धाः

7.56.17

दशस्यन्तः । नः । मरुतः । मृळन्तु । वरिवस्यन्तः । रोदसी इति । सुमेके इतिसु-मेके । आरे । गो--हा । नृ-हा । वधः । वः । अस्तु । सुम्रेभिः । अस्मे इति । वसवः । नमध्वम्

7.56.18

आ । वः । होता । जोहवीति । सत्तः । सत्राची । रातिम् । मरुतः । गृणानः । यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः

7.56.19

इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति । इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति

7.56.20

इमे । रध्रम् । चित् । मरुतः । जुनन्ति । भृमिम् । चित् । यथा । वसवः । जुषन्त । अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति

7.56.21

॥25॥.
-र्व्_5:4।26-
मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दध्म । रथ्यः । वि-भागे । आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सु-जातम् । वृषणः । वः । अस्ति

7.56.22

सम् । यत् । हनन्त । मन्यु-भिः । जनासः । शूराः । यह्वीषु । ओषधीषु । विक्षु । अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः

7.56.23

भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यन्ते । पुरा । चित् । मरुत्-भि ः । उग्रः । पृतनासु । साळ्हा । मरुत्-भिः । इत् । सनिता । वाजम् । अर्वा

7.56.24

अस्मे इति । वीरः । मरुतः । शुष्मी । अस्तु । जनानाम् । यः । असुरः । वि-धर्ता । अपः । येन । सु-क्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम

7.56.25

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त । शर्मन् । स्याम । मरुताम् । उप-स्थे । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc