ऋग्वेदसंहिता, पदपाठ · अध्याय 7.55
॥21॥.
-र्व्_5:4।22-
(र्व्_7,55)
अमीव-हा । वास्तोः । पते । विश्वा । रूपाणि । आविशन् । सखा । सु-शेवः । एधि । नः
यत् । अर्जुन । सारमेय । दतः । पिशङ्ग । यच्छसे । वि-इव । भ्राजन्ते । ऋष्टयः । उप । स्रक्वेषु । नि । सु । स्वप
स्तेनम् । राय । सारमेय । तस्करम् । वा । पुनः-सर । स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुन-यसे । नि । सु । स्वप
त्वम् । सूकरस्य । ददृहि । तव । दर्दर्तु । सूकरः । स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुन-यसे । नि । सु । स्वप
सस्तु । माता । सस्तु । पिता । सस्तु । श्वा । सस्तु । विश्पतिः । ससन्तु । सर्वे । ज्ञातयः । सस्तु । अयम् । अभितः । जनः
यः । आस्ते । यः । च । चरति । यः । च । पश्यति । नः । जनः । तेषाम् । सम् । हन्मः । अक्षाणि । यथा । इदम् । हर्म्यम् । तथा
सहस्र-शृङ्गः । वृषभः । यः । समुद्रात् । उत्-आचरत् । तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि
प्रोष्ठे--शयाः । वह्ये--शयाः । नारीः । याः । तल्प-शीवरीः । स्रियः । याः । पुण्य-गन्धाः । ताः । सर्वाः । स्वापयामसि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0