ऋग्वेदसंहिता, पदपाठ · अध्याय 7.54
॥20॥.
-र्व्_5:4।21-
(र्व्_7,54)
वास्तोः । पते । प्रति । जानीहि । अस्मान् । सु-आवेशः । अनमीवः । भव । नः । यत् । त्वा । ईमहे । प्रति । तत् । नः । जुषस्व । शम् । नः । भव । द्वि-पदे । शम् । चतुः-पदे
वास्तोः । पते । प्र-तरणः । नः । एधि । गय-स्फानः । गोभिः । अश्वेभिः । इन्दो इति । अजरासः । ते । सख्ये । स्याम । पिताइव । पुत्रान् । प्रति । नः । जुषस्व
वास्तोः । पते । शग्मया । सम्-सदा । ते । सक्षीमहि । रण्वया । गातु-मत्या । पाहि । क्षेमे । उत । योगे । वरम् । नः । यूयम् । पात । स्वस्ति-भिः । सदा । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0