भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 7.4

7.4.1

॥4॥.
-र्व्_5:2।5-
(र्व्_7,4)
प्र । वः । शुक्राय । भानवे । भरध्वम् । हव्यम् । मतिम् । च । अग्नये । सु-पूतम् । यः । दैव्यानि । मानुषा । जनूंषि । अन्तः । विश्वानि । विद्मना । जिगाति

7.4.2

सः । गूत्सः । अग्निः । तरुणः । चित् । अस्तु । यतः । यविष्ठः । अजनिष्ट । मातुः । सम् । यः । वना । युवते । शुचि-दम् । भूरि । चित् । अन्ना । सम् । इत् । अत्ति । सद्यः

7.4.3

अस्य । देवस्य । सम्-सदि । अनीके । यम् । मर्तासः । श्येतम् । जगृभ्रे । नि । यः । गृभम् । पौरुषेयीम् । उवोच । दुः-ओकम् । अग्निः । आयवे । शुशोच

7.4.4

अयम् । कविः । अकविषु । प्र-चेताः । मर्तेषु । अग्निः । अमृतः । नि । धायि । सः । मा । नः । अत्र । जुहुरः । सहस्वः । सदा । त्वे इति । सु-मनसः । स्याम

7.4.5

आ । यः । योनिम् । देव-कृतम् । ससाद । क्रत्वा । हि । अग्निः । अमृतान् । अतारीत् । तम् । ओषधीः । च । वनिनः । च । गर्भम् । भूमिः । च । विश्व-धायसम् । बिभर्ति

7.4.6

॥5॥.
-र्व्_5:2।6-
ईशे । हि । अग्निः । अमृतस्य । भूरेः । ईशे । रायः । सु-वीर्यस्य । दातोः । मा । त्वा । वयम् । सहसावन् । अवीराः । मा । अप्सवः । परि । सदाम । मा । अदुवः

7.4.7

परि-सद्यम् । हि । अरणस्य । रेक्णः । नित्यस्य । रायः । पतयः । स्याम । न । शेषः । अग्ने । अन्य-जातम् । अस्ति । अचेतानस्य । मा । पथः । वि । दुक्षः

7.4.8

नहि । ग्रभाय । अरणः । सु-शेवः । अन्य-उदर्यः । मनसा । मन्तवै । ओं इति । अध । चित् । ओकः । पुनः । इत् । सः । एति । आ । नः । वाजी । अभीषाट् । एतु । नव्यः

7.4.9

त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ओं इति । नः । सहसावन् । अवद्यात् । सम् । त्वा । ध्वस्मन्-वत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री

7.4.10

एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सु-चेतसम् । वतेम । विश्वा । स्तोतृ-भ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्ति-भिः । सदा । नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc